आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒: सयो॑नीः ॥
āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṁ carantīḥ | ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ ||
आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः । ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥ १०.३०.१०